वांछित मन्त्र चुनें

पु॒ना॒नः सो॑म॒ जागृ॑वि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः । त्वं विप्रो॑ अभ॒वोऽङ्गि॑रस्तमो॒ मध्वा॑ य॒ज्ञं मि॑मिक्ष नः ॥

अंग्रेज़ी लिप्यंतरण

punānaḥ soma jāgṛvir avyo vāre pari priyaḥ | tvaṁ vipro abhavo ṅgirastamo madhvā yajñam mimikṣa naḥ ||

पद पाठ

पु॒ना॒नः । सो॒म॒ । जागृ॑विः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । त्वम् । विप्रः॑ । अ॒भ॒वः॒ । अङ्गि॑रःऽतमः । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒ । नः॒ ॥ ९.१०७.६

ऋग्वेद » मण्डल:9» सूक्त:107» मन्त्र:6 | अष्टक:7» अध्याय:5» वर्ग:13» मन्त्र:1 | मण्डल:9» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक परमात्मन् ! (पुनानः) आप सबको पवित्र करते हुए (जागृविः) सदैव अपनी चेतन सत्ता से विराजमान हैं, (अव्यः) सर्वरक्षक हैं, (वारे) आपको वरण करनेवाले पुरुष के अन्तःकरण में (परि, प्रियः) आप अत्यन्त प्रिय हैं, (त्वम्) आप (विप्रः) मेधावी हैं, “विप्र इति मेधाविनामसु पठितम्” (अङ्गिरस्तमः, अभवः) सब प्राणों में प्रियतम अर्थात् प्राणों के भी प्राण हैं, (मध्वा) अपने आनन्द से (नः) हमारे (यज्ञम्) यज्ञ को (मिमिक्ष) सिञ्चन करें ॥६॥
भावार्थभाषाः - परमात्मा उपासकों के यज्ञों को अपनी ज्ञानमयी वृष्टि द्वारा सुसिञ्चित करके आनन्दित करते हैं ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक परमात्मन् ! (पुनानः) सर्वान् पावयन् भवान् (जागृविः) शश्वन्निजचेतनसत्तया विराजमानः (अव्यः) सर्वरक्षकः (वारे) त्वद्वरणकर्तुरन्तःकरणे (परि, प्रियः) नितान्तप्रियः (त्वं, विप्रः) भवान् मेधाव्यस्ति (अङ्गिरस्तमः, अभवः) सर्वप्राणेषु अतिप्रियतमः (मध्वा) स्वानन्देन (नः) अस्माकं (यज्ञं) क्रतुं (मिमिक्ष) सिञ्चतु ॥६॥